क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः परिनादिताम्
वस्वोकसारप्रतिमां समीक्ष्य नगरीं ततः। खमिवोत्पतितां लंकां जहर्ष हनुमान् कपिः
तां समीक्ष्य पुरीं लंकां राक्षसाधिपतेः शुभाम्। अनुत्तमामृद्धिमतीं चिन्तयामास वीर्यवान्
नेयमन्येन नगरी शक्या धर्षयितुं बलात्। रक्षिता रावणबलैरुद्यतायुधपाणिभिः
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेद् भूमिर्मैन्दद्विविदयोरपि
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः। ऋक्षस्य कपिमुख्यस्य मम चैव गतिर्भवेत्
समीक्ष्य च महाबाहो राघवस्य पराक्रमम्। लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः
तां रत्नवसनोपेतां गोष्ठागारावतंसिकाम्। यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्
तां नष्टतिमिरां दीपैर्भास्वरैश्च महाग्रहैः। नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः
अथ सा हरिशार्दूलं प्रविशन्तं महाकपिम्। नगरी स्वेन रूपेण ददर्श पवनात्मजम्
सा तं हरिवरं दृष्ट्वा लंका रावणपालिता। स्वयमेवोत्थिता तत्र विकृताननदर्शना
पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत। मुञ्चमाना महानादमब्रवीत् पवनात्मजम्
कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते
न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया। रक्षिता रावणबलैरभिगुप्ता समन्ततः
अथ तामब्रवीद् वीरो हनुमानग्रतः स्थिताम्। कथयिष्यामि तत् तत्त्वं यन्मां त्वं परिपृच्छसे
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे। किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे
हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्
अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्
न शक्यं मामवज्ञाय प्रवेष्टुं नगरीमिमाम्। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया
अहं हि नगरी लंका स्वयमेव प्लवङ्गम। सर्वतः परिरक्षामि अतस्ते कथितं मया
लंकाया वचनं श्रुत्वा हनुमान् मारुतात्मजः। यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः
द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम्। इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे
वनान्युपवनानीह लंकायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे
तस्य तद् वचनं श्रुत्वा लंका सा कामरूपिणी। भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्। न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम
ततः स हरिशार्दूलस्तामुवाच निशाचरीम्। दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्
ततः कृत्वा महानादं सा वै लंका भयंकरम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता
ततः स हरिशार्दूलो लंकया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् मारुतात्मजः
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाभिजघानैनां हनुमान् क्रोधर्मूच्छितः