भूताश्चार्था विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्तीह कार्याणि दूताः पण्डितमानिनः
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः
नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम्
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लंकामभिपतिष्यामि राघवस्यार्थसिद्धये
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्
इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः। वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्। प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम्
प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम्
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्। लंकामुद्योतयामासुः सर्वतः समलंकृताम्
अचिन्त्यामद्भुताकारां दृष्ट्वा लंकां महाकपिः। आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः
स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः सुपालिताम्
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं- स्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोका- नुत्तिष्ठतेऽनेकसहस्ररश्मिः
शङ्खप्रभं क्षीरमृणालवर्ण- मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम्
thumb|तृतीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे तृतीयः सर्गः ॥५-
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे। सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः
निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्
सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्
भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां सविद्युद्घनाकीर्णां ज्योतिर्गणनिषेविताम्
चण्डमारुतनिर्ह्रादां यथा चाप्यमरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्
किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः
वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः
वैदूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः