अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते
चतुर्णामेव हि गतिर्वानराणां तरस्विनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः
यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः
अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः
महौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया। प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत्
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकस्तु पश्येयं रहिते जनकात्मजाम्
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्तीह कार्याणि दूताः पण्डितमानिनः
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः
नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम्
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लंकामभिपतिष्यामि राघवस्यार्थसिद्धये
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्
इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः। वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्। प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम्
प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम्
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्। लंकामुद्योतयामासुः सर्वतः समलंकृताम्
अचिन्त्यामद्भुताकारां दृष्ट्वा लंकां महाकपिः। आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः
स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः सुपालिताम्
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं- स्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोका- नुत्तिष्ठतेऽनेकसहस्ररश्मिः
शङ्खप्रभं क्षीरमृणालवर्ण- मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम्