सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥१-३८-
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१-३८-
अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१-३८-
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥१-३८-
प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१-३८-
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥१-३८-
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता । स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा । यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥१-३८-
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥१-३९-
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥१-३९-
तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥१-३९-
श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥१-३९-
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि । तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥१-३९-
अंशुमानकरोत् तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥१-३९-
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥१-३९-
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥१-३९-
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥१-३९-
तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् । सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥१-३९-
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१-३९-
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ । एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१-३९-
यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् । तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१-३९-
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् । इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् ॥१-३९-
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥१-३९-
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः । योजनायामविस्तारमेकैको धरणीतलम् । बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥१-३९-
नागानां वध्यमानानामसुराणां च राघव । राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥१-३९-
योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥१-३९-