सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान्
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः
समासाद्य च लक्ष्मीवाँल्लंकां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्
सीतापहरणात् तेन रावणेन सुरक्षिताम्। समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजशोभिताम्
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः। ददर्श हनुमाँल्लंकां देवो देवपुरीमिव
गिरिमूर्ध्नि स्थितां लंकां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिः श्रीमान् पुरीमाकाशगामिव
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानामिवाकाशे ददर्श हनुमान् कपिः
वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकावतंसकाम्
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः
कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम्। ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः
सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवतीमिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा
दंष्ट्राभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। नहि युद्धेन वै लंका शक्या जेतुं सुरैरपि
इमां त्वविषमां लंकां दुर्गां रावणपालिताम्। प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः
अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते
चतुर्णामेव हि गतिर्वानराणां तरस्विनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः
यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः
अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः
महौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया। प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत्
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकस्तु पश्येयं रहिते जनकात्मजाम्