स तैः सम्पूजितः पूज्यः प्रतिपन्नप्रयोजनैः। जगामाकाशमाविश्य पन्नगाशनवत् कपिः
प्राप्तभूयिष्ठपारस्तु सर्वतः परिलोकयन्। योजनानां शतस्यान्ते वनराजीं ददर्श सः
ददर्श च पतन्नेव विविधद्रुमभूषितम्। द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च
सागरं सागरानूपान् सागरानूपजान् द्रुमान्। सागरस्य च पत्नीनां मुखान्यपि विलोकयत्
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान्। निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम्
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः। मयि कौतूहलं कुर्युरिति मेने महामतिः
ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्। पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्
तद्रूपमतिसंक्षिप्य हनूमान् प्रकृतौ स्थितः। त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्। परैरशक्यं प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोद्दालकनारिकेले महाभ्रकूटप्रतिमो महात्मा
ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लंकां गिरिवर्यमूर्ध्नि। कपिस्तु तस्मिन् निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान्
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्। निपत्य तीरे च महोदधेस्तदा ददर्श लंकाममरावतीमिव
thumb|द्वितीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-
स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटस्य तटे लंकां स्थितः स्वस्थो ददर्श ह
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति
शतान्यहं योजनानां क्रमेयं सुबहून्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवाँल्लंकां लङ्घयित्वा महोदधिम्
शाद्वलानि च नीलानि गन्धवन्ति वनानि च। मधुमन्ति च मध्येन जगाम नगवन्ति च
शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च। स नगाग्रे स्थितां लंकां ददर्श पवनात्मजः
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान्
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः
समासाद्य च लक्ष्मीवाँल्लंकां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्
सीतापहरणात् तेन रावणेन सुरक्षिताम्। समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजशोभिताम्
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः। ददर्श हनुमाँल्लंकां देवो देवपुरीमिव