तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम्
स सागरमनाधृष्यमभ्येत्य वरुणालयम्। जगामाकाशमाविश्य वेगेन गरुडोपमः
सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचार्यैरैरावतनिषेविते
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलंकृते
वज्राशनिसमस्पर्शैः पावकैरिव शोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते
वहता हव्यमत्यन्तं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते
महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते
बहुशः सेविते वीरैर्विद्याधरगणैर्वृते। जगाम वायुमार्गे च गरुत्मानिव मारुतिः
हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा। कालागुरुसवर्णानि रक्तपीतसितानि च
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे। प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः
प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा। प्रदृश्यमानः सर्वत्र हनूमान् मारुतात्मजः
भेजेऽम्बरं निरालम्बं पक्षयुक्त इवाद्रिराट्। प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी। अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता
इदं मम महासत्त्वं चिरस्य वशमागतम्। इति संचिन्त्य मनसा च्छायामस्य समाक्षिपत्
छायायां गृह्यमाणायां चिन्तयामास वानरः। समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः
प्रतिलोमेन वातेन महानौरिव सागरे। तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि। तद् दृष्ट्वा चिन्तयामास मारुतिर्विकृताननाम्
कपिराज्ञा यथाख्यातं सत्त्वमद्भुतदर्शनम्। छायाग्राहि महावीर्यं तदिदं नात्र संशयः
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः। व्यवर्धत महाकायः प्रावृषीव बलाहकः
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः। वक्त्रं प्रसारयामास पातालाम्बरसंनिभम्
घनराजीव गर्जन्ती वानरं समभिद्रवत्। स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्
कायमात्रं च मेधावी मर्माणि च महाकपिः। स तस्या विकृते वक्त्रे वज्रसंहननः कपिः
संक्षिप्य मुहुरात्मानं निपपात महाकपिः। आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा। ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः
उत्पपाताथ वेगेन मनःसम्पातविक्रमः। तां तु दिष्ट्या च धृत्या च दाक्षिण्येन निपात्य सः
कपिप्रवीरो वेगेन ववृधे पुनरात्मवान्। हृतहृत्सा हनुमता पपात विधुराम्भसि। स्वयंभुवैव हनुमान् सृष्टस्तस्या निपातने
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्। भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्। साधयार्थमभिप्रेतमरिष्टं प्लवतां वर
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव। धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति