एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्। रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साह्यं विषयवासिनि
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
एवमुक्ता हनुमता सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्। बलं जिज्ञासमाना सा नागमाता हनूमतः
निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेःपुरः। एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि। इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम्
दशयोजनविस्तारो हनूमानभवत् तदा। तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्। चकार सुरसाप्यास्यं विंशद् योजनमायतम्
हनूमांस्तु ततः क्रुद्धस्त्रिंशद् योजनमायतः। चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम्
बभूव हनुमान् वीरः पञ्चाशद् योजनोच्छ्रितः। चकार सुरसा वक्त्रं षष्टिं योजनमुच्छ्रितम्
तदैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः। चकार सुरसा वक्त्रमशीतिं योजनोच्छ्रितम्
हनूमाननलप्रख्यो नवतिं योजनोच्छ्रितः। चकार सुरसा वक्त्रं शतयोजनमायतम्
तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्। दीर्घजिह्वं सुरसया सुभीमं नरकोपमम्
स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः। तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः
सोऽभिपद्याथ तद्वक्त्रं निष्पत्य च महाबलः। अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तुते। गमिष्ये यत्र वैदेही सत्यश्चासीद् वरस्तव
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव। अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम्
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना
तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम्
स सागरमनाधृष्यमभ्येत्य वरुणालयम्। जगामाकाशमाविश्य वेगेन गरुडोपमः
सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचार्यैरैरावतनिषेविते
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलंकृते
वज्राशनिसमस्पर्शैः पावकैरिव शोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते
वहता हव्यमत्यन्तं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते
महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते
बहुशः सेविते वीरैर्विद्याधरगणैर्वृते। जगाम वायुमार्गे च गरुत्मानिव मारुतिः
हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा। कालागुरुसवर्णानि रक्तपीतसितानि च