इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः। जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः। पूजितश्चोपपन्नाभिराशीर्भिरभिनन्दितः
अथोर्ध्वं दूरमागत्य हित्वा शैलमहार्णवौ। पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन्। वायुसूनुर्निरालम्बो जगाम कपिकुञ्जरः
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा। काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः
उवाच वचनं धीमान् परितोषात् सगद्गदम्। सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्। अभयं ते प्रयच्छामि गच्छ सौम्य यथासुखम्
साह्यं कृतं ते सुमहद् विश्रान्तस्य हनूमतः। क्रमतो योजनशतं निर्भयस्य भये सति
रामस्यैष हितायैव याति दाशरथेः कपिः। सत्क्रियां कुर्वता शक्त्या तोषितोऽस्मि दृढं त्वया
स तत् प्रहर्षमलभद् विपुलं पर्वतोत्तमः। देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्
स वै दत्तवरः शैलो बभूवावस्थितस्तदा। हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि। हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्। दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्। त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता। समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः
विकृतं च विरूपं च सर्वस्य च भयावहम्। प्लवमानं हनूमन्तमावृत्येदमुवाच ह
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्
वर एष पुरा दत्तो मम धात्रेति सत्वरा। व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः
एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्। रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साह्यं विषयवासिनि
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
एवमुक्ता हनुमता सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्। बलं जिज्ञासमाना सा नागमाता हनूमतः
निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेःपुरः। एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि। इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम्
दशयोजनविस्तारो हनूमानभवत् तदा। तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्। चकार सुरसाप्यास्यं विंशद् योजनमायतम्