स सागरजलं भित्त्वा बभूवात्युच्छ्रितस्तदा। यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः
स महात्मा मुहूर्तेन पर्वतः सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः। आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम्
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः। आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम्
जातरूपमयैः शृङ्गैर्भ्राजमानैर्महाप्रभैः। आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः
समुत्थितमसङ्गेन हनूमानग्रतः स्थितम्। मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः। उरसा पातयामास जीमूतमिव मारुतः
स तदासादितस्तेन कपिना पर्वतोत्तमः। बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च
तमाकाशगतं वीरमाकाशे समुपस्थितः। प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम्
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः। दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम
निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम्। राघवस्य कुले जातैरुदधिः परिवर्धितः
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः। कृते च प्रतिकर्तव्यमेष धर्मः सनातनः
सोऽयं तत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति। त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः
योजनानां शतं चापि कपिरेष खमाप्लुतः। तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्। तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽथ गमिष्यसि। अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै। प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज। तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता। धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान्
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः। पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर
पूजिते त्वयि धर्मज्ञे पूजां प्राप्नोति मारुतः। तस्मात् त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्। तेऽपि जग्मुर्दिशः सर्वा गरुडा इव वेगिनः
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः। पक्षांश्चिच्छेद वज्रेण ततः शतसहस्रशः
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्। ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम। गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः
ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते। त्वया ममैष सम्बन्धः कपिमुख्य महागुणः
अस्मिन् नेवंगते कार्ये सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महामते
श्रमं मोक्षय पूजां च गृहाण हरिसत्तम। प्रीतिं च मम मान्यस्य प्रीतोऽस्मि तव दर्शनात्
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्। प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते। प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा