प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा। ववृषुस्तत्र पुष्पाणि देवगन्धर्वचारणाः
तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम्। सिषेवे च तदा वायू रामकार्यार्थसिद्धये
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा। जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम्
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विविधानि च। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः। करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः। इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम्
तथा मया विधातव्यं विश्रमेत यथा कपिः। शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि। हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्
त्वमिहासुरसङ्घानां देवराज्ञा महात्मना। पातालनिलयानां हि परिघः संनिवेशितः
त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्। पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्। तस्मात् संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्। हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः। मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्। कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि। अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः
चामीकरमहानाभ देवगन्धर्वसेवित। हनूमाँस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्। श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि
हिरण्यगर्भो मैनाको निशम्य लवणाम्भसः। उत्पपात जलात् तूर्णं महाद्रुमलतावृतः
स सागरजलं भित्त्वा बभूवात्युच्छ्रितस्तदा। यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः
स महात्मा मुहूर्तेन पर्वतः सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः। आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम्
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः। आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम्
जातरूपमयैः शृङ्गैर्भ्राजमानैर्महाप्रभैः। आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः
समुत्थितमसङ्गेन हनूमानग्रतः स्थितम्। मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः। उरसा पातयामास जीमूतमिव मारुतः
स तदासादितस्तेन कपिना पर्वतोत्तमः। बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च
तमाकाशगतं वीरमाकाशे समुपस्थितः। प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम्
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः। दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम