विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः। व्यवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा
लघुत्वेनोपपन्नं तद् विचित्रं सागरेऽपतत्। द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्। ताराचितमिवाकाशं प्रबभौ स महार्णवः
पुष्पौघेण सुगन्धेन नानावर्णेन वानरः। बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः
तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत। ताराभिरिव रामाभिरुदिताभिरिवाम्बरम्
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ
पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्। पिपासुरिव चाकाशं ददृशे स महाकपिः
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः। नयने विप्रकाशेते पर्वतस्थाविवानलौ
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले। चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविव स्थितौ
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ। संध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम्
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्
लाङ्गूलचक्रो हनुमान् शुक्लदंष्ट्रोऽनिलात्मजः। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः
स्फिग्देशेनातिताम्रेण रराज स महाकपिः। महता दारितेनेव गिरिर्गैरिकधातुना
तस्य वानरसिंहस्य प्लवमानस्य सागरम्। कक्षान्तरगतो वायुर्जीमूत इव गर्जति
खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता। दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः। प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया
उपरिष्टाच्छरीरेण च्छायया चावगाढया। सागरे मारुताविष्टा नौरिवासीत् तदा कपिः
यं यं देशं समुद्रस्य जगाम स महाकपिः। स तु तस्याङ्गवेगेन सोन्माद इव लक्ष्यते
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्। अभिध्नंस्तु महावेगः पुप्लुवे स महाकपिः
कपिवातश्च बलवान् मेघवातश्च निर्गतः। सागरं भीमनिर्ह्रादं कम्पयामासतुर्भृशम्
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि। पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी
मेरुमन्दरसंकाशानुद्गतान् सुमहार्णवे। अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव
तस्य वेगसमुद्घुष्टं जलं सजलदं तदा। अम्बरस्थं विबभ्राजे शरदभ्रमिवाततम्
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा। वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्
क्रममाणं समीक्ष्याथ भुजगाः सागरंगमाः। व्योम्नि तं कपिशार्दूलं सुपर्णमिव मेनिरे
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता। छाया वानरसिंहस्य जवे चारुतराभवत्
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया पतिता लवणाम्भसि
शुशुभे स महातेजा महाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः
येनासौ याति बलवान् वेगेन कपिकुञ्जरः। तेन मार्गेण सहसा द्रोणीकृत इवार्णवः
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्। हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा
पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च। कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे