भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः। त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह
पानभूमिगतं हित्वा हैममासवभाजनम्। पात्राणि च महार्हाणि करकांश्च हिरण्मयान्
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च। आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मिताः सस्मितास्तस्थुराकाशे रमणौः सह
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः। सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम्
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्। चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे
एष पर्वतसंकाशो हनुमान् मारुतात्मजः। तितीर्षति महावेगः समुद्रं वरुणालयम्
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्। समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति
इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम्। तमप्रमेयं ददृशुः पर्वते वानरर्षभम्
दुधुवे च स रोमाणि चकम्पे चानलोपमः। ननाद च महानादं सुमहानिव तोयदः
आनुपूर्व्या च वृत्तं तल्लाङ्गूलं रोमभिश्चितम्। उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्
तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः। ददृशे गरुडेनेव ह्रियमाणो महोरगः
बाहू संस्तम्भयामास महापरिघसंनिभौ। आससाद कपिः कट्यां चरणौ संचुकोच च
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्। तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान्
मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः। रुरोध हृदये प्राणानाकाशमवलोकयन्
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः। निकुच्य कर्णौ हनुमानुत्पतिष्यन् महाबलः
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्। यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः
गच्छेत् तद्वद् गमिष्यामि लंकां रावणपालिताम्। नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम्
अनेनैव हि वेगेन गमिष्यामि सुरालयम्। यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्। सर्वथा कृतकार्योऽहमेष्यामि सह सीतया
आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम्। एवमुक्त्वा तु हनुमान् वानरो वानरोत्तमः
उत्पपाताथ वेगेन वेगवानविचारयन्। सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः
समुत्पतति वेगात् तु वेगात् ते नगरोहिणः। संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः। उद्वहन्नुरुवेगेन जगाम विमलेऽम्बरे
ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः। अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः। हनूमान् पर्वताकारो बभूवाद्भुतदर्शनः
सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि। भयादिव महेन्द्रस्य पर्वता वरुणालये
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः। शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः