सिंहशार्दूलसहितं मत्तमातङ्गसेवितम्। मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः। विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः
पादाभ्यां पीडितस्तेन महाशैलो महात्मना। ररास सिंहाभिहतो महान् मत्त इव द्विपः
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः। वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः। उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि
त्यज्यमानमहासानुः संनिलीनमहोरगः। शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः
निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः। सपताक इवाभाति स तदा धरणीधरः
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः। सीदन् महति कान्तारे सार्थहीन इवाध्वगः
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता। मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी
thumb|ध्यानश्लोकः श्रूयताम्|center thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे प्रथमः सर्गः ॥५-
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्। मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः। स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम्
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः
स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्
अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्
प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
निष्प्रमाणशरीरः सँल्लिलङ्घयिषुरर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्
स चचालाचलश्चाशु मुहूर्तं कपिपीडितः। तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदमत्त इव द्विपः
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः। रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः
मुमोच च शिलाः शैलो विशालाः समनःशिलाः। मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः
हरिणा पीड्यमानेन पीड्यमानानि सर्वतः। गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः
स महान् सत्त्वसन्नादः शैलपीडानिमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च
शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः। वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा
यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते। विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्