उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः। वीर केसरिणः पुत्र वेगवन् मारुतात्मज
ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः। तव कल्याणरुचयः कपिमुख्याः समागताः
मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः। ऋषीणां च प्रसादेन कपिवृद्धमतेन च
गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम्। स्थास्यामश्चैकपादेन यावदागमनं तव
त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम्। ततश्च हरिशार्दूलस्तानुवाच वनौकसः
कोऽपि लोके न मे वेगं प्लवने धारयिष्यति। एतानीह नगस्यास्य शिलासंकटशालिनः
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च। येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्
नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु। एतानि मम वेगं हि शिखराणि महान्ति च
प्लवतो धारयिष्यन्ति योजनानामितः शतम्। ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः। आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः
वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम्। लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्
सिंहशार्दूलसहितं मत्तमातङ्गसेवितम्। मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः। विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः
पादाभ्यां पीडितस्तेन महाशैलो महात्मना। ररास सिंहाभिहतो महान् मत्त इव द्विपः
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः। वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः। उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि
त्यज्यमानमहासानुः संनिलीनमहोरगः। शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः
निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः। सपताक इवाभाति स तदा धरणीधरः
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः। सीदन् महति कान्तारे सार्थहीन इवाध्वगः
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता। मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी
thumb|ध्यानश्लोकः श्रूयताम्|center thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे प्रथमः सर्गः ॥५-
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्। मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः। स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम्
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः
स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्
अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्
प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
निष्प्रमाणशरीरः सँल्लिलङ्घयिषुरर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्