मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः। त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम्। दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः
त्रिविक्रमे मया तात सशैलवनकानना। त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्
तथा चौषधयोऽस्माभिः संचिता देवशासनात्। निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम्
स इदानीमहं वृद्धः परिहीनपराक्रमः। साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः
तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि। त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्। परा हि सर्वभूतानां हनुमन् या गतिस्तव
विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे। विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव
ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः। प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्। वेगेनापूर्यमाणं च सहसा वानरोत्तमम्
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्
प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः। त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः
संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान्
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः। तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्
यथा विजृम्भते सिंहो विवृते गिरिगह्वरे। मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः। अम्बरीषोपमं दीप्तं विधूम इव पावकः
हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः। अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्
आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्
ममोरुजङ्घावेगेन भविष्यति समुत्थितः। समुत्थितमहाग्राहः समुद्रो वरुणालयः
पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्। वैनतेयमहं शक्तः परिगन्तुं सहस्रशः
उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्। अनस्तमितमादित्यमहं गन्तुं समुत्सहे
ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे। प्रवेगेनैव महता भीमेन प्लवगर्षभाः
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्। सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः। हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्
लतानां विविधं पुष्पं पादपानां च सर्वशः। अनुयास्यति मामद्य प्लवमानं विहायसा
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे। चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च