एवमुक्ता ततस्तुष्टा जननी ते महाकपे। गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने। फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम्
शतानि त्रीणि गत्वाथ योजनानां महाकपे। तेजसा तस्य निर्धूतो न विषादं गतस्ततः
त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे। क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा
तदा शैलाग्रशिखरे वामो हनुरभज्यत। ततो हि नामधेयं ते हनुमानिति कीर्तितम्
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्। त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति। प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ। अशस्त्रवध्यतां तात समरे सत्यविक्रम
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च। सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्
स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो। स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः। त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम्। दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः
त्रिविक्रमे मया तात सशैलवनकानना। त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्
तथा चौषधयोऽस्माभिः संचिता देवशासनात्। निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम्
स इदानीमहं वृद्धः परिहीनपराक्रमः। साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः
तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि। त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्। परा हि सर्वभूतानां हनुमन् या गतिस्तव
विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे। विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव
ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः। प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्। वेगेनापूर्यमाणं च सहसा वानरोत्तमम्
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्
प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः। त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः
संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान्
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः। तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्
यथा विजृम्भते सिंहो विवृते गिरिगह्वरे। मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः। अम्बरीषोपमं दीप्तं विधूम इव पावकः
हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः। अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्
आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः