तद् भवानस्य कार्यस्य साधनं सत्यविक्रम। वुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम। भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः। प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः। पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्
नह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः। तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम्
स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः। अतीत्य तस्य संदेशं विनाशो गमने भवेत्
तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः। तद् भवानेव दृष्टार्थः संचिन्तयितुमर्हति
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः। जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम्
तस्य ते वीर कार्यस्य न किंचित् परिहास्यते। एष संचोदयाम्येनं यः कार्यं साधयिष्यति
ततः प्रतीतं प्लवतां वरिष्ठ- मेकान्तमाश्रित्य सुखोपविष्टम्। संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव
thumb|षट्षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्। जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्
वीर वानरलोकस्य सर्वशास्त्रविदां वर। तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि
हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि। रामलक्ष्मणयोश्चापि तेजसा च बलेन च
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः। गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्
बहुशो हि मया दृष्टः सागरे स महाबलः। भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः
पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव। विक्रमश्चापि वेगश्च न ते तेनापहीयते
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव। विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे
अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला। अञ्जनेति परिख्याता पत्नी केसरिणो हरेः
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि। अभिशापादभूत् तात कपित्वे कामरूपिणी
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः। मानुषं विग्रहं कृत्वा रूपयौवनशालिनी
विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी। अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्। स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ। स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्
तां बलादायतश्रोणीं तनुमध्यां यशस्विनीम्। दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः। मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्
सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत्। एकपत्नीव्रतमिदं को नाशयितुमिच्छति
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत। न त्वां हिंसामि सुश्रोणि मा भूत् ते मनसो भयम्
मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि। वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति
महासत्त्वो महातेजा महाबलपराक्रमः। लङ्घने प्लवने चैव भविष्यति मया समः