यदि कश्चित् समर्थो वः सागरप्लवने हरिः। स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्
अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत्। स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी
पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः। सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः। व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः
नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत्। ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-
अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः। स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम्
गजो गवाक्षो गवयः शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा
आबभाषे गजस्तत्र प्लवेयं दशयोजनम्। गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्
शरभो वानरस्तत्र वानरांस्तानुवाच ह। त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः
ऋषभो वानरस्तत्र वानरांस्तानुवाच ह। चत्वारिंशद् गमिष्यामि योजनानां न संशयः
वानरांस्तु महातेजा अब्रवीद् गन्धमादनः। योजनानां गमिष्यामि पञ्चाशत्तु न संशयः
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह। योजनानां परं षष्टिमहं प्लवितुमुत्सहे
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत। गमिष्यामि न संदेहः सप्ततिं योजनान्यहम्
सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः। अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च। ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत
पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः। ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्। यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ
साम्प्रतं कालमस्माकं या गतिस्तां निबोधत। नवतिं योजनानां तु गमिष्यामि न संशयः
तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत्। न खल्वेतावदेवासीद् गमने मे पराक्रमः
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः। प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः। यौवने च तदासीन्मे बलमप्रतिमं परम्
सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः। नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा। अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः
अहमेतद् गमिष्यामि योजनानां शतं महत्। निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम्
तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः। ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम
कामं शतसहस्रं वा नह्येष विधिरुच्यते। योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्
नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन। भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम
भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः। स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप
अपि वै तस्य कार्यस्य भवान् मूलमरिंदम। तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान्
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः। मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः