उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये। बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः। बुध्यता च मया वीर्यं रावणस्य दुरात्मनः
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्। तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्। तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्। स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्। निशाकरस्य राजर्षेः प्रसादादमितौजसः
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ। यौवने वर्तमानस्य ममासीद् यः पराक्रमः
तमेवाद्यावगच्छामि बलं पौरुषमेव च। सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः। इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्। तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः। बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः। अभिजिदभिमुखां दिशं ययु- र्जनकसुतापरिमार्गणोन्मुखाः
thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःषष्ठितमः सर्गः ॥४-
आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः। संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः
सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्। हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः
अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः। कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम्
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्। संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः। क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम्
संकुलं दानवेन्द्रैश्च पातालतलवासिभिः। रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः। विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन्
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्। आश्वासयामास हरीन् भयार्तान् हरिसत्तमः
न विषादे मनः कार्यं विषादो दोषवत्तरः। विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः
यो विषादं प्रसहते विक्रमे समुपस्थिते। तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह। हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ। वासवं परिवार्येव मरुतां वाहिनी स्थिता
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः
ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः। अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्
क इदानीं महातेजा लङ्घयिष्यति सागरम्। कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्
को वीरो योजनशतं लङ्घयेत प्लवङ्गमः। इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात्
कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च। इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्
कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम्। अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम्