एवमुक्त्वा मुनिश्रेष्ठमरुदं भृशदुःखितः। अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत्
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः। चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते
पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम्। दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम
राजा दशरथो नाम कश्चिदिक्ष्वाकुवर्धनः। तस्य पुत्रो महातेजा रामो नाम भविष्यति
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति। तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः
नैर्ऋतो रावणो नाम तस्य भार्यां हरिष्यति। राक्षसेन्द्रो जनस्थाने अवध्यः सुरदानवैः
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली। न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी
परमान्नं च वैदेह्या ज्ञात्वा दास्यति वासवः। यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति। अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति
यदि जीवति मे भर्ता लक्ष्मणो वापि देवरः। देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति
एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः। आख्येया राममहिषी त्वया तेभ्यो विहङ्गम
सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि। देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे
उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्। इहस्थस्त्वं हि लोकानां हितं कार्यं करिष्यसि
त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः। ब्राह्मणानां गुरूणां च मुनीनां वासवस्य च
इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ। नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्। महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः
thumb|त्रिषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः। मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः। अहं विन्ध्यं समारुह्य भवतः प्रतिपालये
अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम्। देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे। मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्
उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये। बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः। बुध्यता च मया वीर्यं रावणस्य दुरात्मनः
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्। तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्। तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्। स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्। निशाकरस्य राजर्षेः प्रसादादमितौजसः
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ। यौवने वर्तमानस्य ममासीद् यः पराक्रमः
तमेवाद्यावगच्छामि बलं पौरुषमेव च। सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः। इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्। तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः। बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः