तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्। जटायुषा मया चैव बहुशोऽधिगतो हि सः
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः। वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः। द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्
अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम्। कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्
तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः। परिवार्योपगच्छन्ति दातारं प्राणिनो यथा
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः। प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः। मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते। अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे। गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ
ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव। मानुषं रूपमास्थाय गृह्णीतां चरणौ मम
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्। दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः
thumb|एकषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकषष्ठितमः सर्गः ॥४-
ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम्। आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः। परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्
अहं चैव जटायुश्च संघर्षाद् गर्वमोहितौ। आकाशं पतितौ दूराज्जिज्ञासन्तौ पराक्रमम्
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्। रविः स्यादनुयातव्यो यावदस्तं महागिरिम्
अप्यावां युगपत् प्राप्तावपश्याव महीतले। रथचक्रप्रमाणानि नगराणि पृथक् पृथक्
क्वचिद् वादित्रघोषश्च क्वचिद् भूषणनिःस्वनः। गायन्तीः स्माङ्गना बह्वीः पश्यावो रक्तवाससः
तूर्णमुत्पत्य चाकाशमादित्यपदमास्थितौ। आवामालोकयावस्तद् वनं शाद्वलसंस्थितम्
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः। आपगाभिश्च संवीता सूत्रैरिव वसुंधरा
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहागिरिः। भूतले सम्प्रकाशन्ते नागा इव जलाशये
तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः। समाविशत मोहश्च ततो मूर्च्छा च दारुणा
न च दिग् ज्ञायते याम्या न चाग्नेयी न वारुणी। युगान्ते नियतो लोको हतो दग्ध इवाग्निना
मनश्च मे हतं भूयश्चक्षुः प्राप्य तु संश्रयम्। यत्नेन महता ह्यस्मिन् मनः संधाय चक्षुषी
यत्नेन महता भूयो भास्करः प्रतिलोकितः। तुल्यपृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ
जटायुर्मामनापृच्छ्य निपपात महीं ततः। तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्
पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत। प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम्
आशङ्के तं निपतितं जनस्थाने जटायुषम्। अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः
राज्याच्च हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च। सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-