तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्। श्रूयतां मे कथयतो निलयं तस्य रक्षसः
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च। अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः
इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने। तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः। प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता
प्राकारेणार्कवर्णेन महता च समन्विता। तस्यां वसति वैदेही दीना कौशेयवासिनी
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्
लङ्कायामथ गुप्तायां सागरेण समन्ततः। सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्। तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ। आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः। भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्। बलवीर्योपपन्नानां रूपयौवनशालिनाम्
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा। वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः
गर्हितं तु कृतं कर्म येन स्म पिशिताशिनः। प्रतिकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत्
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा। अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा
तस्मादाहारवीर्येण निसर्गेण च वानराः। आयोजनशतात् साग्राद् वयं पश्याम नित्यशः
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः। विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम्
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः। अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्। प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः
ततो नीत्वा तु तं देशं तीरे नदनदीपतेः। निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः
तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम्। बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते
thumb|एकोनषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-
ततस्तदमृतास्वादं गृध्रराजेन भाषितम्। निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः। भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत्
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्। तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्
को दाशरथिबाणानां वज्रवेगनिपातिनाम्। स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्
स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान्। पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्। येन चापि ममाख्यातं यत्र चायतलोचना
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते। चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः
तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः। आहारेण यथाकालं बिभर्ति पततां वरः
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः। मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्