जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा। युवराजो महाप्रज्ञः प्रत्युवाचाङ्गदस्तदा
जटायुषो यदि भ्राता श्रुतं ते गदितं मया। आख्याहि यदि जानासि निलयं तस्य रक्षसः
अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम्। अन्तिके यदि वा दूरे यदि जानासि शंस नः
ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः। आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन्
निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः। वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्
जानामि वारुणाँल्लोकान् विष्णोस्त्रैविक्रमानपि। देवासुरविमर्दांश्च ह्यमृतस्य विमन्थनम्
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया। जरया च हृतं तेजः प्राणाश्च शिथिला मम
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रियमाणा मया दृष्टा रावणेन दुरात्मना
क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी। भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्। असिते राक्षसे भाति यथा वा तडिदम्बुदे
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्। श्रूयतां मे कथयतो निलयं तस्य रक्षसः
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च। अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः
इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने। तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः। प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता
प्राकारेणार्कवर्णेन महता च समन्विता। तस्यां वसति वैदेही दीना कौशेयवासिनी
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्
लङ्कायामथ गुप्तायां सागरेण समन्ततः। सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्। तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ। आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः। भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्। बलवीर्योपपन्नानां रूपयौवनशालिनाम्
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा। वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः
गर्हितं तु कृतं कर्म येन स्म पिशिताशिनः। प्रतिकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत्
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा। अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा
तस्मादाहारवीर्येण निसर्गेण च वानराः। आयोजनशतात् साग्राद् वयं पश्याम नित्यशः
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः। विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम्
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः। अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्। प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः
ततो नीत्वा तु तं देशं तीरे नदनदीपतेः। निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः
तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम्। बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते