ते वयं कपिराजस्य सर्वे वचनकारिणः। कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे। गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः। सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः
यवीयान् स मम भ्राता जटायुर्नाम वानराः। यमाख्यात हतं युद्धे रावणेन बलीयसा
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये। नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे
पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ। आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्
आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम्। मध्यं प्राप्ते तु सूर्ये तु जटायुरवसीदति
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम्। पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम्
निर्दग्धपत्रः पतितो विन्ध्येऽहं वानरर्षभाः। अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये
जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा। युवराजो महाप्रज्ञः प्रत्युवाचाङ्गदस्तदा
जटायुषो यदि भ्राता श्रुतं ते गदितं मया। आख्याहि यदि जानासि निलयं तस्य रक्षसः
अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम्। अन्तिके यदि वा दूरे यदि जानासि शंस नः
ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः। आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन्
निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः। वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्
जानामि वारुणाँल्लोकान् विष्णोस्त्रैविक्रमानपि। देवासुरविमर्दांश्च ह्यमृतस्य विमन्थनम्
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया। जरया च हृतं तेजः प्राणाश्च शिथिला मम
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रियमाणा मया दृष्टा रावणेन दुरात्मना
क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी। भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्। असिते राक्षसे भाति यथा वा तडिदम्बुदे
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्। श्रूयतां मे कथयतो निलयं तस्य रक्षसः
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च। अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः
इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने। तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः। प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता
प्राकारेणार्कवर्णेन महता च समन्विता। तस्यां वसति वैदेही दीना कौशेयवासिनी
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्
लङ्कायामथ गुप्तायां सागरेण समन्ततः। सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्। तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ। आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः। भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह