कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्। स सुखी गृध्रराजस्तु रावणेन हतो रणे। मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्
जटायुषो विनाशेन राज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः
रामलक्ष्मणयोर्वासमरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च तथा वधः
रामकोपादशेषाणां रक्षसां च तथा वधम्। कैकेय्या वरदानेन इदं च विकृतं कृतम्
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान्। भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः
तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम्। अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे। जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः। नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्। यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः
अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात्। तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः। तस्यैव च मम भ्रातुः सखा दशरथः कथम्
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम्। इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-
शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः। श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः। चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति
सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति। कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः
एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः। अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा
बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान्। ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ
सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ। लोके विश्रुतकर्माभूद् राजा वाली पिता मम
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया। पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः
तस्य भार्या जनस्थानाद् रावणेन हृता बलात्। रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा। रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्। परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे
एवं गृध्रो हतस्तेन रावणेन बलीयसा। संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम्
ततो मम पितृव्येण सुग्रीवेण महात्मना। चकार राघवः सख्यं सोऽवधीत् पितरं मम
मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह। निहत्य वालिनं रामस्ततस्तमभिषेचयत्
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः। राजा वानरमुख्यानां तेन प्रस्थापिता वयम्
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः। वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः। अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्
मयस्य मायाविहितं तद् बिलं च विचिन्वताम्। व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः