तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि। आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा। कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति
भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम्। किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्। शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्
बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्। अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः
अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम्। इहैव प्रायमासिष्ये श्रेयो मरणमेव मे
अभिवादनपूर्वं तु राजा कुशलमेव च। अभिवादनपूर्वं तु राघवौ बलशालिनौ
वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः। आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे
मातरं चैव मे तारामाश्वासयितुमर्हथ। प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्। एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः। तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः। सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्
परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम्। तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः
उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्। दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः
मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह। रामस्य वनवासं च क्षयं दशरथस्य च
जनस्थानवधं चैव वधं चैव जटायुषः। हरणं चैव वैदेह्या वालिनश्च वधं तथा। रामकोपं च वदतां हरीणां भयमागतम्
स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवंगमैः। बभूव संनादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवाम्बरम्
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-
उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले। हरयो गृध्रराजश्च तं देशमुपचक्रमे
सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः। भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः। उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्
विधिः किल नरं लोके विधानेनानुवर्तते। यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्। उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्
तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः। अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्
पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः। इमं देशमनुप्राप्तो वानराणां विपत्तये
रामस्य न कृतं कार्यं न कृतं राजशासनम्। हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा। गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः। ततस्तस्योपकारार्थं त्यजतात्मानमात्मना
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा। राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः