thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि। अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्। चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः। शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः। शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः। अभिसंधातुमारेभे हनूमानङ्गदं ततः
स चतुर्णामुपायानां तृतीयमुपवर्णयन्। भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्। भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम्। दृढं धारयितुं शक्तः कपिराज्यं यथा पिता
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव। नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया
त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते। यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः
नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः। दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम्
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा। आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः
यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम्। एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम्
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा। लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः। वज्राशनिसमस्पर्शा गिरीणामपि दारकाः
अवस्थानं यदैव त्वमासिष्यसि परंतप। तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः। खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः। तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः। अपवृत्तं जिघांसन्तो महावेगा दुरासदाः
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्। आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति
धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः। शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत्
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम्। तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम्
thumb|पञ्चपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्। स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्
स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्। विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम्। धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः
कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना। युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्
सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः। विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्
लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा। आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत्