शासनात् कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत
वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः। मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः। हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्
अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः। न क्षमिष्यति नः सर्वानपराधकृतो गतान्
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति। तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च। ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः। न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा। स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः। किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे। इहैव प्रायमासिष्ये पुण्ये सागररोधसि
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्। सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः। समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते
अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान्। राघवप्रियकामाय घातयिष्यत्यसंशयम्
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः। प्रधानभूताश्च वयं सुग्रीवस्य समागताः
इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा। नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम्
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे। अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः
इदं हि मायाविहितं सुदुर्गमं प्रभूतपुष्पोदकभोज्यपेयम्। इहास्ति नो नैव भयं पुरंदरा- न्न राघवाद् वानरराजतोऽपि वा
श्रुत्वाङ्गदस्यापि वचोऽनुकूल- मूचुश्च सर्वे हरयः प्रतीताः। यथा न हन्येम तथा विधान- मसक्तमद्यैव विधीयतां नः
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि। अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्। चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः। शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः। शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः। अभिसंधातुमारेभे हनूमानङ्गदं ततः
स चतुर्णामुपायानां तृतीयमुपवर्णयन्। भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्। भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम्। दृढं धारयितुं शक्तः कपिराज्यं यथा पिता
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव। नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया