उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम्। शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना। स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि। तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान्। महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः। एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्। तपसः सुप्रभावेण नियमोपार्जितेन च
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान्। निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः। ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः
सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया। वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा
निमेषान्तरमात्रेण बिलादुत्तारितास्तया। उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत्। एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः। स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्। अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्। तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान्। द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्। नष्टसंदेशकालार्था निपेतुर्धरणीतले
ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः। वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः। युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्
शासनात् कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत
वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः। मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः। हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्
अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः। न क्षमिष्यति नः सर्वानपराधकृतो गतान्
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति। तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च। ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः। न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः