चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम्। लतापादपसंछन्नं तिमिरेण समावृतम्
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः। कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः। तेषामपि हि सर्वेषामनुमानमुपागतम्
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः। ततो गाढं निपतिता गृह्य हस्तैः परस्परम्
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्। एतन्नः कार्यमेतेन कृत्येन वयमागताः
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः। आतिथ्यधर्मदत्तानि मूलानि च फलानि च
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः। यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः। एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा
प्रत्युवाच ततः सर्वानिदं वानरयूथपान्। सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्
चरन्त्या मम धर्मेण न कार्यमिह केनचित्। एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्
उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम्। शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना। स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि। तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान्। महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः। एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्। तपसः सुप्रभावेण नियमोपार्जितेन च
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान्। निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः। ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः
सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया। वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा
निमेषान्तरमात्रेण बिलादुत्तारितास्तया। उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत्। एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः। स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्। अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्। तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान्। द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्। नष्टसंदेशकालार्था निपेतुर्धरणीतले
ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः। वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः। युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्