तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्। पुरा दानवमुख्यानां विश्वकर्मा बभूव ह
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्। स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने
पितामहाद् वरं लेभे सर्वमौशनसं धनम्। विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा
उवास सुखितः कालं कंचिदस्मिन् महावने। तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः। इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्। दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा
इदं रक्षामि भवनं हेमाया वानरोत्तम। मम प्रियसखी हेमा नृत्तगीतविशारदा
तयादत्तवरा चास्मि रक्षामि भवनं महत्। किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्। शुचीन्यभ्यवहाराणि मूलानि च फलानि च। भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-
अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान्। इदं वचनमेकाग्रा तापसी धर्मचारिणी
वानरा यदि वः खेदः प्रणष्टः फलभक्षणात्। यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम्
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया। तस्य भार्या जनस्थानाद् रावणेन हृता बलात्
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम्
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्। सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्
रावणं सहिताः सर्वे राक्षसं कामरूपिणम्। सीतया सह वैदेह्या मार्गध्वमिति चोदिताः
विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम्। वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः। नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम्। लतापादपसंछन्नं तिमिरेण समावृतम्
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः। कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः। तेषामपि हि सर्वेषामनुमानमुपागतम्
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः। ततो गाढं निपतिता गृह्य हस्तैः परस्परम्
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्। एतन्नः कार्यमेतेन कृत्येन वयमागताः
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः। आतिथ्यधर्मदत्तानि मूलानि च फलानि च
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः। यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः। एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा
प्रत्युवाच ततः सर्वानिदं वानरयूथपान्। सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्
चरन्त्या मम धर्मेण न कार्यमिह केनचित्। एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्