काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः। मणिकाञ्चनचित्राणि शयनान्यासनानि च
विविधानि विशालानि ददृशुस्ते समन्ततः। हैमराजतकांस्यानां भाजनानां च राशयः
अगुरूणां च दिव्यानां चन्दनानां च संचयान्। शुचीन्यभ्यवहाराणि मूलानि च फलानि च
महार्हाणि च यानानि मधूनि रसवन्ति च। दिव्यानामम्बराणां च महार्हाणां च संचयान्
कम्बलानां च चित्राणामजिनानां च संचयान्। तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान्
ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान्। तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः। तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम्
तापसीं नियताहारां ज्वलन्तीमिव तेजसा। विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः। पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम्
ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम्। पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम्। अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्। क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः। इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः। कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः
शुचीन्यभ्यवहाराणि मूलानि च फलानि च। काञ्चनानि विमानानि राजतानि गृहाणि च
तपनीयगवाक्षाणि मणिजालावृतानि च। पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा। काञ्चनानि च पद्मानि जातानि विमले जले
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः। आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम्
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि। एवमुक्ता हनुमता तापसी धर्मचारिणी
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता। मयो नाम महातेजा मायावी वानरर्षभ
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्। पुरा दानवमुख्यानां विश्वकर्मा बभूव ह
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्। स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने
पितामहाद् वरं लेभे सर्वमौशनसं धनम्। विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा
उवास सुखितः कालं कंचिदस्मिन् महावने। तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः। इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्। दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा
इदं रक्षामि भवनं हेमाया वानरोत्तम। मम प्रियसखी हेमा नृत्तगीतविशारदा
तयादत्तवरा चास्मि रक्षामि भवनं महत्। किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्। शुचीन्यभ्यवहाराणि मूलानि च फलानि च। भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-