दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः। ततः पर्वतकूटाभो हनूमान् मारुतात्मजः
अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः। गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम्। अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः। नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः। इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम्
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्। निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्। न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते। ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः
प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम्। ततस्तस्मिन् बिले भीमे नानापादपसंकुले
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम्। ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः
परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः। ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः
आलोकं ददृशुर्वीरा निराशा जीविते यदा। ततस्तं देशमागम्य सौम्या वितिमिरं वनम्
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान्। सालांस्तालांस्तमालांश्च पुंनागान् वञ्जुलान् धवान्
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्। स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा
आपीडैश्च लताभिश्च हेमाभरणभूषितान्। तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान्
बिभ्राजमानान् वपुषा पादपांश्च हिरण्मयान्। नीलवैदूर्यवर्णाश्च पद्मिनीः पतगैर्वृताः
महद्भिः काञ्चनैर्वृक्षैर्वृता बालार्कसंनिभैः। जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः। काञ्चनानि विमानानि राजतानि तथैव च
तपनीयगवाक्षाणि मुक्ताजालावृतानि च। हैमराजतभौमानि वैदूर्यमणिमन्ति च
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः। पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान्
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः। मणिकाञ्चनचित्राणि शयनान्यासनानि च
विविधानि विशालानि ददृशुस्ते समन्ततः। हैमराजतकांस्यानां भाजनानां च राशयः
अगुरूणां च दिव्यानां चन्दनानां च संचयान्। शुचीन्यभ्यवहाराणि मूलानि च फलानि च
महार्हाणि च यानानि मधूनि रसवन्ति च। दिव्यानामम्बराणां च महार्हाणां च संचयान्
कम्बलानां च चित्राणामजिनानां च संचयान्। तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान्
ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान्। तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः। तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम्
तापसीं नियताहारां ज्वलन्तीमिव तेजसा। विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः। पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम्
ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम्। पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-