ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्। शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च। विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम्। अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः। स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः
ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः। पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः। विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः। विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा। विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम्। तेषां तत्रैव वसतां स कालो व्यत्यवर्तत
स हि देशो दुरन्वेष्यो गुहागहनवान् महान्। तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्
परस्परेण रहिता अन्योन्यस्याविदूरतः। गजो गवाक्षो गवयः शरभो गन्धमादनः
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि। अङ्गदो युवराजश्च तारश्च वनगोचरः
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्। विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्। क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्। तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः। ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम्
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः। संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः। नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्
दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः। ततः पर्वतकूटाभो हनूमान् मारुतात्मजः
अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः। गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम्। अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः। नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः। इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम्
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्। निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्। न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते। ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः
प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम्। ततस्तस्मिन् बिले भीमे नानापादपसंकुले
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम्। ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः