अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्। कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः। खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम्
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम्। परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम्
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः। भेतव्यं तस्य सततं रामस्य च महात्मनः
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते। उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः। उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह। हितं चैवानुकूलं च क्रियतामस्य भाषितम्
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा। काननानि च शून्यानि गिरिप्रस्रवणानि च
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना। विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः
ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्। शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च। विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम्। अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः। स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः
ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः। पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः। विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः। विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा। विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम्। तेषां तत्रैव वसतां स कालो व्यत्यवर्तत
स हि देशो दुरन्वेष्यो गुहागहनवान् महान्। तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्
परस्परेण रहिता अन्योन्यस्याविदूरतः। गजो गवाक्षो गवयः शरभो गन्धमादनः
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि। अङ्गदो युवराजश्च तारश्च वनगोचरः
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्। विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्। क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्। तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः। ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम्
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः। संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः। नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्