त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी । कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् । पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे । तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-
न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-
देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-
धारयिष्याम्यहं तेजस्तेजसैव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-
एवमुक्तः सुरपतिः प्रमुमोच महाबलः । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् । आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-
एष ते विस्तरो राम शैलपुत्र्या निवेदितः गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-
तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-
येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-