न चात्र वृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः। स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः। कण्डुर्नाम महाभागः सत्यवादी तपोधनः
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः। तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः
प्रणष्टो जीवितान्ताय क्रुद्धस्तेन महामुनिः। तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्। तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च
प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः। तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः। ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्
ददृशुर्भीमकर्माणमसुरं सुरनिर्भयम्। तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम्
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्। सोऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद् बली
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संगतम्। तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह। स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्
असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः। ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः
व्यचिन्वन् प्रायशस्तत्र सर्वं ते गिरिगह्वरम्। विचितं तु ततः सर्वं सर्वे ते काननौकसः
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्। ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः। एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः
thumb|एकोनपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-
अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्। परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः
वनानि गिरयो नद्यो दुर्गाणि गहनानि च। दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते। तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती
कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः। तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्। विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम्
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्। कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः। खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम्
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम्। परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम्
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः। भेतव्यं तस्य सततं रामस्य च महात्मनः
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते। उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः। उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह। हितं चैवानुकूलं च क्रियतामस्य भाषितम्
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा। काननानि च शून्यानि गिरिप्रस्रवणानि च
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना। विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः
ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्