ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत्। इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले। प्रविशेद् यदि वै वाली मूर्धास्य शतधा भवेत्
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति। ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज
न विवेश तदा वाली मतङ्गस्य भयात् तदा। एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्। पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-
दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः। व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा
ते सरांसि सरित्कक्षानाकाशं नगराणि च। नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः। तत्र देशान् विचिन्वन्ति सशैलवनकाननान्
विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः
सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान्। आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः। कपिराजेन संगम्य निराशाः कपिकुञ्जराः
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह। अदृष्ट्वा विनतः सीतामाजगाम महाबलः
दिशमप्युत्तरां सर्वां विविच्य स महाकपिः। आगतः सह सैन्येन भीतः शतबलिस्तदा
सुषेणः पश्चिमामाशां विविच्य सह वानरैः। समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च। आसीनं सह रामेण सुग्रीवमिदमब्रुवन्
विचिताः पर्वताः सर्वे वनानि गहनानि च। निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये
गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः। विचिताश्च महागुल्मा लताविततसंतताः
गहनेषु च देशेषु दुर्गेषु विषमेषु च। सत्त्वान्यतिप्रमाणानि विचितानि हतानि च। ये चैव गहना देशा विचितास्ते पुनः पुनः
उदारसत्त्वाभिजनो हनूमान् स मैथिलीं ज्ञास्यति वानरेन्द्र। दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-
सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः। सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः। ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च
पर्वताग्रनदीदुर्गान् सरांसि विपुलद्रुमान्। वृक्षषण्डांश्च विविधान् पर्वतान् वनपादपान्
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्। न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्
ते भक्षयन्तो मूलानि फलानि विविधान्यपि। अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह
स तु देशो दुरन्वेषो गुहागहनवान् महान्। निर्जलं निर्जनं शून्यं गहनं घोरदर्शनम्
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः। स देशश्च दुरन्वेष्यो गुहागहनवान् महान्
त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः। देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः। निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्
न सन्ति महिषा यत्र न मृगा न च हस्तिनः। शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः