एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः। क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। आनयिष्यामहे सीतां हनिष्यामश्च रावणम्
अहमेको वधिष्यामि प्राप्तं रावणमाहवे। ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति। एक एवाहरिष्यामि पातालादपि जानकीम्
विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन्। धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्
अहं योजनसंख्यायाः प्लवेयं नात्र संशयः। शतयोजनसंख्यायाः शतं समधिकं ह्यहम्
भूतले सागरे वापि शैलेषु च वनेषु च। पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः
इत्येकैकस्तदा तत्र वानरा बलदर्पिताः। ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ
thumb|षट्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४-
गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्। कथं भवान् विजानीते सर्वं वै मण्डलं भुवः
सुग्रीवश्च ततो राममुवाच प्रणतात्मवान्। श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्। प्रतिकालयते वाली मलयं प्रति पर्वतम्
तदा विवेश महिषो मलयस्य गुहां प्रति। विवेश वाली तत्रापि मलयं तज्जिघांसया
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत्। न च निष्क्रामते वाली तदा संवत्सरे गते
ततः क्षतजवेगेन आपुपूरे तदा बिलम्। तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषार्दितः
अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः। शिला पर्वतसंकाशा बिलद्वारि मया कृता
अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति। ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते
राज्यं च सुमहत् प्राप्य तारां च रुमया सह। मित्रैश्च सहितस्तत्र वसामि विगतज्वरः
आजगाम ततो वाली हत्वा तं वानरर्षभः। ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः
स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः। परिकालयते वाली धावन्तं सचिवैः सह
ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः। नदीश्च विविधाः पश्यन् वनानि नगराणि च
आदर्शतलसंकाशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्टा गोष्पदवत् कृता
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान्। पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्। क्षीरोदं सागरं चैव नित्यमप्सरसालयम्
परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम्। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्। विन्ध्यपादपसंकीर्णां चन्दनद्रुमशोभिताम्
द्रुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम्। अपरां च दिशं प्राप्तो वालिना समभिद्रुतः
स पश्यन् विविधान् देशानस्तं च गिरिसत्तमम्। प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम्। यदा न विन्दे शरणं वालिना समभिद्रुतः