ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः। चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-
विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्। स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्। सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव
सासुराः सहगन्धर्वाः सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः
गतिर्वेगश्च तेजश्च लाघवं च महाकपे। पितुस्ते सदृशं वीर मारुतस्य महौजसः
तेजसा वापि ते भूतं न समं भुवि विद्यते। तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः। देशकालानुवृत्तिश्च नयश्च नयपण्डित
ततः कार्यसमासङ्गमवगम्य हनूमति। विदित्वा हनुमन्तं च चिन्तयामास राघवः
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः। निश्चितार्थतरश्चापि हनूमान् कार्यसाधने
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः। भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्। कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्। अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः। सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे
स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः। वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः
स तत् प्रकर्षन् हरिणां महद् बलं बभूव वीरः पवनात्मजः कपिः। गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः
अतिबल बलमाश्रितस्तवाहं हरिवर विक्रम विक्रमैरनल्पैः। पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः। समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये
एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः। तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः
शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे। रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः
प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः। उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा। पूर्वां दिशं प्रतिययौ विनतो हरियूथपः
ताराङ्गदादिसहितः प्लवगः पवनात्मजः। अगस्त्याचरितामाशां दक्षिणां हरियूथपः
पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः। प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्
ततः सर्वा दिशो राजा चोदयित्वा यथातथम्। कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः। क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः