सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः। सर्वे कामार्थसहिता वसन्ति सह योषितः
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः। श्रूयते सततं तत्र सर्वभूतमनोरमः
तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः
समतिक्रम्य तं देशमुत्तरः पयसां निधिः। तत्र सोमगिरिर्नाम मध्ये हेममयो महान्
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये। देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते। सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता
भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः। ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः। अन्येषामपि भूतानां नानुक्रामति वै गतिः
स हि सोमगिरिर्नाम देवानामपि दुर्गमः। तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः। अभास्करममर्यादं न जानीमस्ततः परम्
सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम्। यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः
ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम्। कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा
ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः। चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-
विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्। स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्। सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव
सासुराः सहगन्धर्वाः सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः
गतिर्वेगश्च तेजश्च लाघवं च महाकपे। पितुस्ते सदृशं वीर मारुतस्य महौजसः
तेजसा वापि ते भूतं न समं भुवि विद्यते। तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः। देशकालानुवृत्तिश्च नयश्च नयपण्डित
ततः कार्यसमासङ्गमवगम्य हनूमति। विदित्वा हनुमन्तं च चिन्तयामास राघवः
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः। निश्चितार्थतरश्चापि हनूमान् कार्यसाधने
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः। भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्। कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्। अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः। सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे
स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः। वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः
स तत् प्रकर्षन् हरिणां महद् बलं बभूव वीरः पवनात्मजः कपिः। गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः