ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः। नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः। तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः। नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः। उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः। मुक्तावैदूर्यचित्राणि भूषणानि तथैव च। स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः। महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च। मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः
पानानि च महार्हाणि भक्ष्याणि विविधानि च। स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः
गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा। रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः। सर्वे कामार्थसहिता वसन्ति सह योषितः
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः। श्रूयते सततं तत्र सर्वभूतमनोरमः
तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः
समतिक्रम्य तं देशमुत्तरः पयसां निधिः। तत्र सोमगिरिर्नाम मध्ये हेममयो महान्
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये। देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते। सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता
भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः। ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः। अन्येषामपि भूतानां नानुक्रामति वै गतिः
स हि सोमगिरिर्नाम देवानामपि दुर्गमः। तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः। अभास्करममर्यादं न जानीमस्ततः परम्
सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम्। यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः
ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम्। कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा
ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः। चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-
विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्। स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्। सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव
सासुराः सहगन्धर्वाः सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः
गतिर्वेगश्च तेजश्च लाघवं च महाकपे। पितुस्ते सदृशं वीर मारुतस्य महौजसः
तेजसा वापि ते भूतं न समं भुवि विद्यते। तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय