अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः। अस्मासु च गतः प्रीतिं रामः परपुरंजयः
इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च। भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा
तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च। प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः
काम्बोजयवनांश्चैव शकानां पत्तनानि च। अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ
लोध्रपद्मकषण्डेषु देवदारुवनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्। कालं नाम महासानुं पर्वतं तं गमिष्यथ
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च। विचिन्वत महाभागां रामपत्नीमनिन्दिताम्
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्। ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ
ततो देवसखो नाम पर्वतः पतगालयः। नानापक्षिसमाकीर्णो विविधद्रुमभूषितः
तस्य काननषण्डेषु निर्झरेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्। अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्
तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्। कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा
विशाला नलिनी यत्र प्रभूतकमलोत्पला। हंसकारण्डवाकीर्णा अप्सरोगणसेविता
तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः। धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्। अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम्
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च। निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः
अवृक्षं कामशैलं च मानसं विहगालयम्। न गतिस्तत्र भूतानां देवानां न च रक्षसाम्
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः। क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः
मयस्य भवनं तत्र दानवस्य स्वयंकृतम्। मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः
स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु। तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्
सिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः। वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः। हेमपुष्करसंछन्नं तत्र वैखानसं सरः
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः। औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः
गजः पर्येति तं देशं सदा सह करेणुभिः। तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्। अनक्षत्रगणं व्योम निष्पयोदमनादितम्
गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते। विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा। उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः
ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च। उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः