प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति
एतावज्जीवलोकस्य भास्करो रजनीक्षये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्
अवगम्य तु वैदेहीं निलयं रावणस्य च। अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः। गुरुरेष महाबाहुः श्वशुरो मे महाबलः
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि। प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः। कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत्। सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम्
ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य। आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्। वीरं शतबलिं नाम वानरं वानरेश्वरः
उवाच राजा सर्वज्ञः सर्ववानरसत्तमः। वाक्यमात्महितं चैव रामस्य च हितं तदा
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्। वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम्। सर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम्
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये। ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः
कृतं हि प्रियमस्माकं राघवेण महात्मना। तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्। तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा। तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः। अस्मासु च गतः प्रीतिं रामः परपुरंजयः
इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च। भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा
तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च। प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः
काम्बोजयवनांश्चैव शकानां पत्तनानि च। अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ
लोध्रपद्मकषण्डेषु देवदारुवनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्। कालं नाम महासानुं पर्वतं तं गमिष्यथ
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च। विचिन्वत महाभागां रामपत्नीमनिन्दिताम्
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्। ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ
ततो देवसखो नाम पर्वतः पतगालयः। नानापक्षिसमाकीर्णो विविधद्रुमभूषितः
तस्य काननषण्डेषु निर्झरेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्। अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्