चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः। तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्। आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः
तस्य सानुषु रम्येषु विशालासु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः। सुवर्णशृङ्गः सुमहानगाधे वरुणालये
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्। यस्मिन् वसति दुष्टात्मा नरको नाम दानवः
तत्र सानुषु रम्येषु विशालासु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम्। पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः। अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः। अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्। षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः। जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः
तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः। आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः। मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः। ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः
विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः। आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्
योजनानां सहस्राणि दश तानि दिवाकरः। मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम्। प्रासादगणसम्बाधं विहितं विश्वकर्मणा
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः। निकेतं पाशहस्तस्य वरुणस्य महात्मनः
अन्तरा मेरुमस्तं च तालो दशशिरा महान्। जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः। मेरुसावर्णिरित्येष ख्यातो वै ब्रह्मणा समः
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति
एतावज्जीवलोकस्य भास्करो रजनीक्षये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्
अवगम्य तु वैदेहीं निलयं रावणस्य च। अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः। गुरुरेष महाबाहुः श्वशुरो मे महाबलः
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि। प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः। कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत्। सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम्