स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च। पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम्
तथा केतकषण्डांश्च मार्गध्वं हरिपुङ्गवाः। प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः
तापसानामरण्यानि कान्तारगिरयश्च ये। तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्। ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ
तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः। ततः केतकषण्डेषु तमालगहनेषु च
कपयो विहरिष्यन्ति नारिकेलवनेषु च। तत्र सीतां च मार्गध्वं निलयं रावणस्य च
वेलातलनिविष्टेषु पर्वतेषु वनेषु च। मुरवीपत्तनं चैव रम्यं चैव जटापुरम्
अवन्तीमङ्गलेपां च तथा चालक्षितं वनम्। राष्ट्राणि च विशालानि पत्तनानि ततस्ततः
सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः। महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः
तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः। तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये। दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः। तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः। कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम्
दुर्दर्शां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः। कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम्
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्। पावकार्चिःप्रतीकाशाः समवेताः समन्ततः
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः। नादेयं च फलं तस्माद् देशात् किंचित् प्लवङ्गमैः
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः। फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी। नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम्
तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः। नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः
श्रीमान् समुदितस्तत्र योजनानां शतं समम्। गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः
चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः। तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्। आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः
तस्य सानुषु रम्येषु विशालासु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः। सुवर्णशृङ्गः सुमहानगाधे वरुणालये
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्। यस्मिन् वसति दुष्टात्मा नरको नाम दानवः
तत्र सानुषु रम्येषु विशालासु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम्। पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः। अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः। अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्। षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ