दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी। अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी
एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः। मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने। गिरिः पुष्पितको नाम सिद्धचारणसेवितः
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः। भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः। श्वेतं राजतमेकं च सेवते यन्निशाकरः। न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः
प्रणम्य शिरसा शैलं तं विमार्गथ वानराः। तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः
अध्वना दुर्विगाहेन योजनानि चतुर्दश। ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः। तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च
मधूनि पीत्वा जुष्टानि परं गच्छत वानराः। तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा। तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्। तत्र भोगवती नाम सर्पाणामालयः पुरी
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता। रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः
सर्पराजो महाघोरो यस्यां वसति वासुकिः। निर्याय मार्गितव्या च सा च भोगवती पुरी
तत्र चानन्तरोद्देशा ये केचन समावृताः। तं च देशमतिक्रम्य महानृषभसंस्थितिः
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः। गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्
रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम्। तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च। रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्
अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः। ततः परं न वः सेव्यः पितृलोकः सुदारुणः
राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता। एतावदेव युष्माभिर्वीरा वानरपुंगवाः। शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः
सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते। गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ
यश्च मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति। मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः। कृतापराधो बहुशो मम बन्धुर्भविष्यति
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः। मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-
अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम्। अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम्
तारायाः पितरं राजा श्वशुरं भीमविक्रमम्। अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च
महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्। वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम्। मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान्
ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद् दिशम्। द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ। सौराष्ट्रान् सहबाह्लीकांश्चन्द्रचित्रांस्तथैव च