द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् । ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्। सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी
कान्तेव युवती कान्तं समुद्रमवगाहते। ततो हेममयं दिव्यं मुक्तामणिविभूषितम्
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः। ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः। चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः
जातरूपमयः श्रीमानवगाढो महार्णवम्। नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्
देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम्। सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोरमम्
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु। द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः। तत्र सर्वात्मना सीता मार्गितव्या विशेषतः
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः। राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी। अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी
एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः। मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने। गिरिः पुष्पितको नाम सिद्धचारणसेवितः
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः। भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः। श्वेतं राजतमेकं च सेवते यन्निशाकरः। न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः
प्रणम्य शिरसा शैलं तं विमार्गथ वानराः। तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः
अध्वना दुर्विगाहेन योजनानि चतुर्दश। ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः। तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च
मधूनि पीत्वा जुष्टानि परं गच्छत वानराः। तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा। तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्। तत्र भोगवती नाम सर्पाणामालयः पुरी
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता। रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः
सर्पराजो महाघोरो यस्यां वसति वासुकिः। निर्याय मार्गितव्या च सा च भोगवती पुरी
तत्र चानन्तरोद्देशा ये केचन समावृताः। तं च देशमतिक्रम्य महानृषभसंस्थितिः
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः। गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्
रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम्। तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च। रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्
अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः। ततः परं न वः सेव्यः पितृलोकः सुदारुणः
राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता। एतावदेव युष्माभिर्वीरा वानरपुंगवाः। शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः
सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते। गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ