तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे। द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः। दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्
तत्र वैखानसा नाम वालखिल्या महर्षयः। प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते। तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि
शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः। आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते
पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च। सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता। रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता
शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च। ये च नोक्ता मयोद्देशा विचेया तेषु जानकी
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्
अभिगम्य तु वैदेहीं निलयं रावणस्य च। मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्। दक्षिणां प्रेषयामास वानरानभिलक्षितान्
नीलमग्निसुतं चैव हनूमन्तं च वानरम्। पितामहसुतं चैव जाम्बवन्तं महौजसम्
सुहोत्रं च शरारिं च शरगुल्मं तथैव च। गजं गवाक्षं गवयं सुषेणं वृषभं तथा
मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम्। उल्कामुखमनङ्गं च हुताशनसुतावुभौ
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः। वेगविक्रमसम्पन्नान् संदिदेश विशेषवित्
तेषामग्रेसरं चैव बृहद्बलमथाङ्गदम्। विधाय हरिवीराणामादिशद् दक्षिणां दिशम्
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः। कपीशः कपिमुख्यानां स तेषां समुदाहरत्
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम्। नर्मदां च नदीं रम्यां महोरगनिषेविताम्
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम्। वरदां च महाभागां महोरगनिषेविताम्। मेखलानुत्कलांश्चैव दशार्णनगराण्यपि
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत। विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः। अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्
नदीं गोदावरीं चैव सर्वमेवानुपश्यत। तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान्
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः। विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः
सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः। ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम्
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः। तस्यासीनं नगस्याग्रे मलयस्य महौजसम्